பக்கம்:Ashwalayana gruhya sutra bhashyam.pdf/152

விக்கிமூலம் இலிருந்து
இப்பக்கம் மெய்ப்பு பார்க்கப்படவில்லை

________________

प्रथमोऽध्यायः ११३ आचार्यश्च ज्ञात्वा पश्चाज्जुहोति । समन्वारब्धो ब्रह्मचारिणा सदसस्पतिमद्भुतमित्यनेन मन्त्रेण प्रथमामाहुति जुहोति ।। ११ ।। साविल्या द्वितीयम् ॥ १२ ॥ सावित्रीति प्रथिता ऋक् । तया द्वितीयामाहुति जुहोति । अत्र द्वितीयग्रहणमपार्थकम् । उपदेशादेव द्वितीया भविष्यति । द्वितीयेत्युच्यते अधिकारार्थम् । अधिकारे सति किं प्रयोजनम् । यदि नोच्यत ‘यद्यच्चात ऊर्ध्वम् ' इति तृतीया प्रसज्येत । अतोऽधिकारः क्रियते । कथमनूक्तेन सावित्या वैकाहुतिः स्यादिति ।।१२।। यद्यच्चात ऊर्ध्वमनूक्तं स्यात् ।। १३ ॥ यद्यच्चात ऊर्ध्वमिति किमुक्तं भवति । अत्रानेकधा विप्रतिपन्नाः ।। केचित् तावत् प्रतिमण्डलं होममिच्छन्ति । अन्ये प्रत्यृषिम् । अन्ये प्रत्यनुवाकम् । अन्य प्रतिसूक्तम् । प्रत्यृचमपरे । सर्वथा चोपपत्तयः शक्यन्ते । अस्य तु वाक्यस्य नैवायमर्थः । किं कारणम् । अनुशब्दचोदितत्वात् । यत्र यत्रानुशब्दो भवति तत्र तत्रैवानुप्रवचनीयं प्राप्नोति । यथा ' महानाम्नी भो३ अनुब्रूहि' इति । महाव्रतानुवचने च प्राप्नोति । उपनिषदि चेत्युपदेशस्तत्रापि साध्यते । अन्ये पुनरनुशब्दमध्ययने वर्णयन्ति । तत्र यद्यदधीते तस्य तस्यानुप्रवचनीयं भवति । तत्र पक्षाः प्रागुक्ताः ।। १३ ।। ऋषिभ्यस्तृतीयम् ॥१४॥ तत्र संशयः । किमयं मन्त्रः उतोपदेशक इति । येषां मन्त्रस्तेषाम् ऋषिभ्यः स्वाहेति प्राप्नोति । येषामुपदेशकस्तेषांयावन्त ऋषयोऽनूक्तास्तेषां या सा-added in B. पदेश: -B. 4 इत्येव-B. प्राप्योपनिषदि-~A, C, D. Omitted in B. 3 नेत्य .

"https://ta.wikisource.org/w/index.php?title=பக்கம்:Ashwalayana_gruhya_sutra_bhashyam.pdf/152&oldid=1341496" இலிருந்து மீள்விக்கப்பட்டது